शिखरम्

सुधाव्याख्या

शिखाऽस्यास्ति । शिखाया ह्रस्वश्च' (५.२) इति रः । शिखां राति, इति वा । ङ्यापोः-' (६.३.६३) इति ह्रस्वः । शिखरं पुलकाग्रयोः । पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च । गिरिवृक्षाग्रकक्षासु इति हैमः । ’अस्त्री’ इति पूवोत्तराभ्यां सम्बन्धते ।


प्रक्रिया

शिख + र - शिखाया ह्रस्वश्च (५.२) उणादिसूत्रम् ।
शिखर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शिखर + अम् - अतोऽम् 7.1.24
शिखरम् - अमि पूर्वः 6.1.107