भृगुः

सुधाव्याख्या

भृज्जति भृज्ज्यते वा । 'भ्रस्ज पाके’ (तु० उ० अ०) । ‘प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च' (उ० १.२८) । न्यङ्क्वादित्वात् कुत्वं (७.३.५३) । भृगुः सानौ जमदग्निप्रपातयोः । शुक्रे रुद्रे च' इति हैमः । 'प्रपातस्तु तटो भृगुः’ इति पाठे प्रपत्यते यतस्तटात्स भृगुः ।