उपलः

सुधाव्याख्या

उप लाति । 'ला दाने' (अ० प० अ०) । 'आतश्चोप-' (३.१.१३६) इति कः । यद्वा पलति । 'पल गतौ (भ्वा० प० से०) । अच् (३.१.१३४) । ओ: शम्भोः पलो बोधकः । ‘उपलो ग्रावरत्नयो: । उपला तु शर्करायाम् इति हैमः ॥