शृङ्गम्

सुधाव्याख्या

शृणाति । ‘शॄ हिंसायाम्' (क्र्या० प० से०) । 'शृणातेर्ह्रस्वश्च (उ० १.१२६) इति गन्नुड्ह्रस्वाः । श्रृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः कूर्चकशीर्षके । स्त्री विषायां स्वर्णमीनभेदयोर्ऋषभौषधौ' इति मेदिनी ।