पाषाणः

सुधाव्याख्या

पाषाणेति । पिनष्टि । ‘पिष्लृ सञ्चूर्णने’ (रु० प० अ०) । बाहुलकादानच् । पृषोदरादिः (६.३.१०९) । मूर्धन्यषः । पषत्यनेन । ‘पष बाधे ग्रन्थे च' । 'हलश्च’ (३.३.१२१) इति घञ् । अणति । ‘अण शब्दे’ (भ्वा० प० से०) । अच् (३.१.१३४) । पाषश्चासावणश्च । यतु—‘पषेर्णित्’ इत्यानच्-इति मुकुटः । तन्न । उक्तसूत्रादर्शनात् ।