अमरकोशः


श्लोकः

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा । धरा धरित्री धरणी क्षोणि ज्या काश्यपी क्षितिः ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भू भूः स्त्रीलिङ्गः भवति । क्विप् कृत् ऊकारान्तः
2 भूमि भूमिः स्त्रीलिङ्गः भवति । मि उणादिः इकारान्तः
3 अचला अचला स्त्रीलिङ्गः न चलति । अच् कृत् आकारान्तः
4 अनन्ता अनन्ता स्त्रीलिङ्गः नास्त्यन्तोऽस्याः । तत्पुरुषः समासः आकारान्तः
5 रसा रसा स्त्रीलिङ्गः रसोऽस्यामस्ति । अच् कृत् आकारान्तः
6 विश्वंभरा विश्वम्भरा स्त्रीलिङ्गः विश्वं बिभर्ति । तत्पुरुषः समासः आकारान्तः
7 स्थिरा स्थिरा स्त्रीलिङ्गः तिष्ठति । किरच् उणादिः आकारान्तः
8 धरा धरा स्त्रीलिङ्गः धरति विश्वम् । अच् कृत् आकारान्तः
9 धरित्री धरित्री स्त्रीलिङ्गः धरति विश्वम् । इत्र उणादिः ईकारान्तः
10 धरणी धरणी स्त्रीलिङ्गः धरति विश्वम् । अनि उणादिः ईकारान्तः
11 क्षोणी क्षोणी स्त्रीलिङ्गः क्षौति । नि बाहुलकात् ईकारान्तः
12 ज्या ज्या स्त्रीलिङ्गः जिनाति । यक् उणादिः आकारान्तः
13 काश्यपी काश्यपी स्त्रीलिङ्गः कश्यपस्येयम् । अण् तद्धितः ईकारान्तः
14 क्षिति क्षितिः स्त्रीलिङ्गः क्षियति । क्तिच् कृत् इकारान्तः