अनन्ता

सुधाव्याख्या

नास्त्यन्तोऽस्याः । यद्वा अनन्तोऽस्ति धारको यस्याः । ‘अनन्तः केशवे शेषे पुमान्, अनवधौ त्रिषु । अनन्ता च विशल्यायां शारिवादूर्वयोरपि । कणादुरालभापथ्या-पार्वत्यामलकीषु च । विश्वम्भरागुडूच्योः स्यादनन्तं सुरवर्मनि' ॥