विश्वम्भरा

सुधाव्याख्या

विश्वं बिभर्ति । ‘डुभृञ् संज्ञायां भृतॄवृजि’ (३.२.४६) इति खच् । ‘विश्वम्भरोऽच्युते शक्रे पुंसि, विश्वम्भरा भुवि ।


प्रक्रिया

धातुः - डुभृञ् धारणपोषणयोः


भृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
विश्व + अम् + भृ + खच् - संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46
विश्व + भृ + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
विश्व + भृ + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
विश्व + भर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
विश्व + मुम् + भर - अरुर्द्विषदजन्तस्य मुम् 6.3.67
विश्व + म् + भर - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विश्वम्भर + टाप् - अजाद्यतष्टाप्‌ 4.1.4
विश्वम्भर + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
विश्वम्भरा - अकः सवर्णे दीर्घः 6.1.101
विश्वम्भरा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विश्वम्भरा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विश्वम्भरा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68