भूः

सुधाव्याख्या

भूरिति । भवति । कर्तरि क्विप् (३.२.१७८) । ‘भूः स्थान- मात्रे कथिता धरण्यामपि योषिति' । यत्तु—‘भवत्यस्यां सर्वम् इति भूः । बहुलवचनात् (३.३.११३)–अधिकरणे क्विप् (३.३.१७८) इत्याह मुकुटः । तन्न । उक्तरीत्या निर्वाहात् । ‘अद्भ्य: पृथिवी’ इति श्रुतिविरोधाच्च ।