क्षितिः

सुधाव्याख्या

क्षियति । ’क्षि निवासगत्यो: (तु० प० अ०) । क्तिच्क्तौ च-’ इति (३.३.१७४) क्तिच् । यत्तु–क्षियन्त्यत्र–इति मुकुटः । तन्न । 'अजब्भ्याम्-’ (वा० ३.३.१२६) इति ल्युटा बाधात् । ‘क्षितिर्गेहे भुवि क्षये’ इति हैमः ॥