धरणी

सुधाव्याख्या

अर्तिसृधृ- (उ० २.१०२) इत्यनिः । ‘कृदिकारात् (ग० ४.१.४५) इति ङीष् । गौरादित्वाङीष् (४.१.४१)-इति मुकुटस्य प्रमादः । ('धरणोऽहिपतौ लोके स्तने धान्ये दिवाकरे) । धरणं धारणे मानविशेषे धरणी भुवि' इति हैम: ॥