धरा

सुधाव्याख्या

धरति विश्वम् । धृञ् धारणे' (भ्वा० उ० अ०) । यद्वा ध्रियते । ‘शृङ् अवस्थाने’ (तु० आ० अ०) । पचाद्यच् (३.१.१३४) । धराः सन्त्यस्यां वा । ‘धरः कूर्माधिपे गिरौ । कर्पासतूलेऽथ धरा मेदोभूमिजरायुषु’ इति हैमः ।