रसा

सुधाव्याख्या

रसोऽस्यामस्ति । अर्शआद्यच् (५.२.१२७) रस्यते वा । ‘रस आस्वादने’ चुरादावदन्तः । घञ् (३.३.११३) । अच् (३.३.५६) वा । यत्तु-घञर्थे को (३.३.५८) वा - इति मुकुटः । तन्न । परिगणनात् । अचः सत्त्वाच्च (रसा तु रसनापाठासल्लकीक्षितिकङ्गुषु-’) ॥