अमरकोशः


श्लोकः

अलिञ्जर: स्यान्मणिक: कर्कर्यालुर्गलन्तिका । पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अलिंजर अलिंजरः पुंलिङ्गः अलिं सामर्थ्यं जरयति, जृणाति, वा । अण् कृत् अकारान्तः
2 मणिक मणिकः पुंलिङ्गः मणति । इन् उणादिः अकारान्तः
3 कर्करी कर्करी स्त्रीलिङ्गः कर्कणम् । कृत् ईकारान्तः
4 आलु आलुः स्त्रीलिङ्गः आ लुनाति । क्विप् कृत् उकारान्तः
5 गलन्तिका गलन्तिका स्त्रीलिङ्गः गलति । शतृ कृत् आकारान्तः
6 पिटर पिटरः पुंलिङ्गः पेठति । कृत् अकारान्तः
7 स्थाली स्थाली स्त्रीलिङ्गः तिष्ठत्यत्रौदनादि । आलच् उणादिः ईकारान्तः
8 उखा उखा स्त्रीलिङ्गः ओखति । कृत् आकारान्तः
10 कुण्ड कुण्डम् नपुंसकलिङ्गः कुण्डयति । अच् कृत् अकारान्तः
11 कलस कलसः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः केन जलेन लसति । अच् कृत् अकारान्तः