कलसः

सुधाव्याख्या

केति । केन जलेन लसति । ‘लस श्लेषणक्रीडनयोः’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३५) । तालव्यान्तपाठे कलं शवति । ‘शु गतौ’ () । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः । कलशः शम्बलं चैव जिह्वायां रशना तथा’ इति शभेदः । स्त्रियां जातित्वान्ङीष् (४.१.६३) ॥