गलन्तिका

सुधाव्याख्या

गलति । ‘गल अदने’ (भ्वा० प० से०) । शता (३.२.१२४) । ‘उगितश्च’ इति ङीप् । (४.१.६) । ‘शप्श्यनोः-’ (७.१.८१) इति नुम् स्वार्थे कन् । (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


गलँ अदने स्रवणे च
गल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गल् + शतृ - लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124
गल् + अत् - उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गलत् + ङीप् - उगितश्च 4.1.6
गलत् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गलन्ती - शप्श्यनोर्नित्यम् 7.1.81
गलन्ती + कन् - न सामिवचने 5.4.5
गलन्ती + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गलन्तिक - केऽणः 7.4.13
गलन्तिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
गलन्तिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
गलन्तिका - अकः सवर्णे दीर्घः 6.1.101
गलन्तिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गलन्तिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गलन्तिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D