कर्करी

सुधाव्याख्या

केति । कर्कणम् । ‘कर्क हासे’ () । घञ् (३.३.१८) । कर्कं राति । ‘रा दाने’ (अ० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । गौरादिः (४.१.६१) । ‘कर्करी भाण्डभेदे ना दर्पणे कठिने त्रिषु’ इति विश्वः (मेदिनी) ॥


प्रक्रिया

धातुः -


कर्कँ हासे
कर्क् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्क् + घञ् - भावे 3.3.18
कर्क् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
रा दाने
कर्क + अम् + रा + क - आतोऽनुपसर्गे कः 3.2.3
कर्क + रा + क - सुपो धातुप्रातिपदिकयोः 2.4.71
कर्क + रा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कर्क + र् + अ - आतो लोप इटि च 6.4.64
कर्कर + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
कर्कर + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कर्कर् + ई - यस्येति च 6.4.148
कर्करी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कर्करी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्करी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D