आलू

सुधाव्याख्या

आ लुनाति । ‘लूञ् छेदने’ (क्र्या० उ० से०) । क्विप् (३.२.७६) । ह्रस्वपाठे आलाति । ‘ला दाने' (अ० प० से०) । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः । ‘आलुर्गलन्तिकायां स्त्री क्लीबं मूले च भेलके' इति विश्वः (मेदिनी) ॥