स्थाली

सुधाव्याख्या

तिष्ठत्यत्रौदनादि । ‘ष्ठा गतिनिवृत्तो’ (भ्वा० प० अ०) । ‘स्थाचति-’ (उ० १.११६) इत्यालच् । स्थलत्यत्र वा । ‘ष्ठल स्थाने’ (भ्वा० प० से०) । ज्वलादीण् (३.१.४०) । ‘जातेः’ (४.१.६३) इति ङीष् । स्थालं च । ‘स्थालं भाजनभेदेऽपि स्थाली स्यात्पाटलोखयोः’ (इति मेदिनी) ॥