अलिञ्जरः

सुधाव्याख्या

अलीति । अलनम् । ‘अल भूषणादौ’ (भ्वा० प० से०) । ‘इक्कृष्यादिभ्यः’ (वा० ३.३.१०८) । इन् (उ० ४.११८) वा । अलिं सामर्थ्यं जरयति, जृणाति, वा । ‘जॄष् वयोहानौ’ (भ्वा० प० से०) । ‘जॄ वयोहानौ’ (क्र्या० प० से०) वा । अण् (३.२.१) । अच् (३.१.१३५) वा ॥


प्रक्रिया

धातुः -


अलँ भूषणपर्याप्तिवारणेषु
अल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अल् + इक् - वार्तिकम् ।
अल् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जॄष् वयोहानौ
जॄ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अलि + अम् + जॄ + अण् - कर्मण्यण् 3.2.1
अलि + जॄ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
अलि + जॄ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अलिञ्जर - अनुस्वारस्य ययि परसवर्णः 8.4.58
अलिञ्जर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अलिञ्जर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अलिञ्जर + रु - ससजुषो रुः 8.2.66
अलिञ्जर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अलिञ्जरः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D