कुण्डम्

सुधाव्याख्या

कुण्डयति । ‘कुडि रक्षायाम्’ (चु० प० से०) । अच् (३.१.१३४) -कुणति । ‘कुण शब्दोपतापयोः’ (तु० प० से०) । ‘कुणादिभ्यः कित्’ इति डः- इति मुकुटः । तन्न । उक्तसूत्राभावात् । ‘क्वादेः कित्’ (उ० १.११५) इति सूत्रस्य सत्त्वात् । ‘कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ जारा - त्पतिवत्नीसुते पुमान् । पिठरे तु न ना’ इति विश्वः (मेदिनी) ॥