अमरकोशः


श्लोकः

तूष्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलाग्र: करवाल: कृपाणवत् ॥ ८९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तूणी तूणी स्त्रीलिङ्गः ङीष् स्त्रीप्रत्ययः ईकारान्तः
2 खड्ग खड्गः पुंलिङ्गः खण्डति परम् । गन् उणादिः अकारान्तः
3 निस्त्रिंश निस्त्रिंशः पुंलिङ्गः निर्गतस्त्रिंशतोऽङ्गुलिभ्यः । तत्पुरुषः समासः अकारान्तः
4 चन्द्रहास चन्द्रहासः पुंलिङ्गः चन्द्र इव हासः प्रभास्य । बहुव्रीहिः समासः अकारान्तः
5 असि असिः पुंलिङ्गः अस्यते । इन् उणादिः इकारान्तः
6 रिष्टि रिष्टिः पुंलिङ्गः रेषति । क्तिच् कृत् इकारान्तः
7 कौक्षेयक कौक्षेयकः पुंलिङ्गः कुक्षौ भवः ढकञ् तद्धितः अकारान्तः
8 मण्डलाग्र मण्डलाग्रः पुंलिङ्गः मण्डलमग्रमस्य ॥ बहुव्रीहिः समासः अकारान्तः
9 करपाल करपालः पुंलिङ्गः करं पालयति । अण् कृत् अकारान्तः
10 कृपाण कृपाणः पुंलिङ्गः कृपां नुदति । कृत् अकारान्तः