रिष्टिः

सुधाव्याख्या

रेषति । ‘रिषु हिंसायाम्' (भ्वा० प० से०) रिशति वा । ‘रिश हिंसायाम्’ (तु० प० अ०) । क्तिच् (३.३.१७४) । ‘रिष्टिः खड्गे ना शुभे स्त्री’ (इति मेदिनी) । अजादिरिति स्वाम्यादिः । ऋषति । ‘ऋषी गतौ’ (तु० प० से०) । क्तिच् (३.३.१७४) ‘करवालमण्डलाग्रकालेयकासिरिष्टयः’ । ऋष्टिः खड्गस्तरवारिकौक्षेयकौ च नन्दकः’ इति रभसः ॥