तूणी

सुधाव्याख्या

तूणयति । 'तूण सङ्कोचे’ (चु० अ० से०) । पचाद्यच् (३.१.१३४) । तूण्यते शरैः । घञ् (३.३.१९) वा । गौरादित्वात् (४.१.४१) ङीषपि । ‘तूणी नील्यां निषङ्गे वा ना’ (इति मेदिनी) । (‘तूणी तु नील्यां तूणौ निषङ्गके' इति विश्वः) ॥