खड्गः

सुधाव्याख्या

खेति । खण्डति परम् । खण्ड्यतेऽनेन वा । ‘खडि भेदने’ ‘छापूखडिभ्यः कित्' (उ० १.२४) इति गन् । आगमशास्त्रस्यानित्यत्वान्न नुम् । 'खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके’ (इति विश्वमेदिन्यौ) ॥