चन्द्रहासः

सुधाव्याख्या

चन्द्र इव हासः प्रभास्य । चन्द्रे हसति वा । द्युतिमत्त्वात् । ‘हसे हसने’ (भ्वा० प० से०) । 'चन्द्रहासोऽसिमात्रके । दशग्रीवकृपाणे च, कनीयसि च गुग्गुलौ’ (इति हैमः) ॥