असिः

सुधाव्याख्या

अस्यते । ‘असु क्षेपणे' (दि० प० से०) असति । ‘अस दीप्तौ (भ्वा० उ० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । बाहुलकादिः इति मुकुटश्चिन्त्यः । ‘असिः खड्गे नदीभिदि’ इति हैमः ॥