करपालः

सुधाव्याख्या

करं पालयति । ‘पाल रक्षणे' (चु० प० से०) । 'कर्मण्यण्' (३.२.१) । ‘करवालः’ इति पाठान्तरम् । करं वलति । ‘वल प्राणने' (भ्वा० प० से०) । 'कर्मण्यण्' (३.२.१) करेण वलति वा । ज्वलादिणः (३.१.१४०) । यद्वा वलनम् । वालः । ‘वल वेष्टने’ (भ्वा० आ० से०) । घञ् (३.३.१८) । करे वालो यस्य । करेण वल्यते वा । कर्मणि घञ् (३.३.१९) ॥