निस्त्रिंशः

सुधाव्याख्या

निर्गतस्त्रिंशतोऽङ्गुलिभ्यः । 'निरादयः क्रान्ता-' (वा० २.२.१८) इति समासः । ‘संख्यायास्तत्पुरुषस्य’ (वा० ५.४.७३) इति डच् । -'बहुव्रीहौ संख्येये-' (५.४.७३) इति डच्- इति मुकुटश्चिन्त्यः । बहुव्रीहेरभावात् । ‘निस्त्रिंशो निर्घृणे खड्गे’ इति हैमः ॥


प्रक्रिया

धातुः -


निर् + त्रिशत - निरादयः क्रान्ताद्यर्थे पञ्चम्या (2.2.18) । वार्तिकम् ।
निस्त्रिशत + डच् – संख्यायास्तत्पुरुषस्य वाच्यः (5.4.73) । वार्तिकम् ।
निस्त्रिशत + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
निस्त्रिश् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
निस्त्रिश + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
निस्त्रिश + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निस्त्रिश + रु - ससजुषो रुः 8.2.66
निस्त्रिश + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निस्त्रिशः - खरवसानयोर्विसर्जनीयः 8.3.15