अमरकोशः


श्लोकः

वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः । आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥ ४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वाजिन् वाजिन् पुंलिङ्गः अवश्यं वजति । णिनि कृत् नकारान्तः
2 वाह वाहः पुंलिङ्गः उह्यते । घञ् कृत् अकारान्तः
3 अर्वन् अर्वन् पुंलिङ्गः ऋच्छति । वनिप् कृत् नकारान्तः
4 गन्धर्व गन्धर्वः पुंलिङ्गः गन्धमर्वति । अण् कृत् अकारान्तः
5 हय हयः पुंलिङ्गः हयति । अच् कृत् अकारान्तः
6 सैन्धव सैन्धवः पुंलिङ्गः सिन्धुषु भवः । अण् तद्धितः अकारान्तः
7 सप्ति सप्तिः पुंलिङ्गः सपति सेनायां समवैति । क्तिच् कृत् इकारान्तः
8 आजानेय आजानेयः पुंलिङ्गः अजनम् । अकारान्तः
9 विनीत विनीताः पुंलिङ्गः विनीयन्ते स्म । क्त कृत् अकारान्तः
10 साधुवाहिन् साधुवाहिनः पुंलिङ्गः साधुवहनशीलाः । णिनि कृत् नकारान्तः