आजानेयः

सुधाव्याख्या

आजेति । अजनम् । ‘अज गतिक्षेपणयोः’ (भ्वा० प० से०) । घञ् (३.३.१८) । आजेन क्षेपेणानेयाः प्रापणीया आयत्ता वा । 'अश्वं कुलीनमाजानेयं, शावं किशोरं ब्रुवते' इति नाममाला । 'शक्तिभिर्भिन्नहृदयाः स्खलन्तश्च पदे पदे । आजानन्ति यतः संज्ञामाजानेयास्ततः स्मृताः इत्यश्वशास्त्रम् ॥