वाहः

सुधाव्याख्या

उह्यते । अनेन वा । ‘वह प्रापणे’ (भ्वा० उ० अ०) । कर्मणि करणे वा घञ् (३.३.१९) । वाह्यते वा । ण्यन्तः । अच् (३.३.५६) वाहते । ‘वाहृ प्रयत्ने’ (भ्वा० आ० से०) । अच् (३.१.१३४) । वाहो भुजे पुमान्मानभेदाश्ववृषवायुषु’ (इति मेदिनी) ॥