साधुवाहिनः

सुधाव्याख्या

साधुवहनशीलाः । ‘वह प्रापणे' (भ्वा० उ० अ०) । ‘सुपि-' (३.२.७८) इति णिनिः । मुकुटस्तु–‘साधुकारिणी च' (वा ३.१.७८) इति णिनि: इत्याह । तन्न । एवं सति णिनिना गतार्थत्वात् साधुशब्दस्य प्रयोगो न स्यात् ॥