विनीताः

सुधाव्याख्या

वीति । विनीयन्ते स्म । ‘णीञ् प्रापणे’ (भ्वा० उ० अ०) । क्तः (३.२.१०२) । सुशिक्षिताः । ‘विनीतः सुवहाश्वे स्याद्वणिज्यपि पुमांस्त्रिषु । जितेन्द्रियेऽपनीते च निभृते विनयान्विते’ (इति मेदिनी) ॥