वाजिन्

सुधाव्याख्या

अवश्यं वजति । ‘वज गतौ’ (भ्वा० प० से०) । ‘आवश्यका- (३.३.१७०) इति णिनिः । यद्वा वाजाः पक्षा अभूवन् यस्य । इनिः (५.२.११५) । ‘वाजी बाणाश्वपक्षिषु’ (इति मेदिनी) ॥