गन्धर्वः

सुधाव्याख्या

गन्धमर्वति । ‘अर्व गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) । शकन्ध्वादिः (वा० ६.१.९४) । ‘गन्धर्वस्तु नभश्चरे । पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे । अन्तराभवदेहे च (इति हैमः) ॥