अर्वन्

सुधाव्याख्या

ऋच्छति । ‘ऋ गतौ’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि-’ (३.२.७५) इति वनिप् । मुकुटस्तु 'स्नामदिपद्यर्तिभृशकिभ्यो वनिप्' (उ० ४.११३) -इत्याह । तन्न । तत्र क्वनिपो विधानाद्गुणाभावप्रसङ्गात् । यद्वा अर्वति । ‘अर्व गतौ’ (भ्वा० प० से०) । बाहुलकात् कनिन् । मुकुटस्तु बाहुलकाद्वनिप् । राल्लोपः(६.४.२१) इति (सुभूतिः) इत्याह । तन्न । वनिब्विधौ बाहुलकस्यानुपयोगात् । ‘अन्येभ्योऽपि (३.२.७५) इति वनिपः सर्वेभ्यः सिद्धत्वात् । उणादिषु वनिपो दर्शनात् । क्वौ झलादौ किति अनुनासिके च राल्लोपस्य विहितत्वेन वनिपि तदसम्भवात् । लोपं विनापि रूपसिद्धेश्च । ‘अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः’ (इति मेदिनी ॥