अमरकोशः


श्लोकः

ऋक्षाच्छभल्लभालूका: गण्डके खड्गखड्गिनौ । लुलापो महिषो वाहद्विषत्कासरसैरिभाः ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऋक्ष ऋक्षः पुंलिङ्गः ऋक्ष्णोति । अच् कृत् अकारान्तः
2 अच्छभल्ल अच्छभल्लः पुंलिङ्गः अच्छ आभिमुख्येन भल्लते । तत्पुरुषः समासः अकारान्तः
3 भालूक भालूकः पुंलिङ्गः भालयते । ऊक उणादिः अकारान्तः
4 गण्डक गण्डकः पुंलिङ्गः गण्डेति । उणादिः अकारान्तः
5 खड्ग खड्गः पुंलिङ्गः खडति । गन् उणादिः अकारान्तः
6 खड्गिन् खड्गी पुंलिङ्गः खड्गः शृङ्गमस्त्यस्य । इनि तद्धितः नकारान्तः
7 लुलाप लुलापः पुंलिङ्गः लुडति पङ्के । कृत् अकारान्तः
8 महिष महिषः पुंलिङ्गः महति, मह्यते, वा । टिषच् उणादिः अकारान्तः
9 वाहद्विषत् वाहद्विषत् पुंलिङ्गः वाहानां द्विषन् । तत्पुरुषः समासः तकारान्तः
10 कासर कासरः पुंलिङ्गः के जले आसरति । अच् कृत् अकारान्तः
11 सैरिभ सैरिभः पुंलिङ्गः सीरोऽस्त्येषाम् । इनि तद्धितः अकारान्तः