लुलापः

सुधाव्याख्या

लुलेति । लुडति पङ्के । ‘लुड संश्लेषे' (तु० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । डलयोरेकत्वम् । आप्नोति । ‘आप्लृ व्याप्तौ' (स्वा० प० अ०) । अच् (३.१.१३४) । लुलश्चासावापश्च । यद्वा लुड्यन्ते । ‘लुड विलोडने’ भिदाद्यङ् (३.३.१०४) । लुला विलोडिता आपोयेन । ‘लुल विमर्दने इति सौत्रो धातुर्वा ॥ (‘लुलायः' इति) अन्त:स्थयकारान्तपाठे बाहुलकादायङ्प्रत्ययः । -‘लुलिकुलिकषिभ्य आय:' इति मुकुटलिखितसूत्रमुज्ज्वलदत्तादिषु न पश्यामः । यद्वा अयते । अय गतौ (भ्वा० आ० से०) । अच् (३.१.१३४) । लुलश्वासावयश्च ॥


प्रक्रिया

धातुः -


लुडँ विलोडने
लुड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लुड् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
लुड् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
लुल - डलयोरेकत्वम् ।
आपॢँ व्याप्तौ
आप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आप् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
आप् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
लुल + सु + आप + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
लुल + आप - सुपो धातुप्रातिपदिकयोः 2.4.71
लुलाप - अकः सवर्णे दीर्घः 6.1.101
लुलाप + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लुलाप + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लुलाप + रु - ससजुषो रुः 8.2.66
लुलाप + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ललापः - खरवसानयोर्विसर्जनीयः 8.3.15