महिषः

सुधाव्याख्या

महति, मह्यते, वा । ‘मह पूजायाम्’ (भ्वा० प० से०) । ‘अविमह्योष्टिषच्’ (उ० १.४५) । यद्वा मंहते । ‘महिङ् वृद्धौ' (भ्वा० आ० से०) । आगमशासनस्यानित्यत्वान्न नुम् । ‘टिड्ढा-' (४.१.१५) इति ङीप् ॥