सैरिभः

सुधाव्याख्या

सीरोऽस्त्येषाम् । इनिः (५.२.११५) । सीरिणां कर्षकाणामिभ इव । शकन्थ्वादिः (वा० ६.१.९४) । प्रज्ञाद्यण् (५.४.३८) । यद्वा ‘सीरोऽर्कहलयोः पुंसि’ (इति मेदिनी) । सीरस्य सूर्यस्य इभ इव । पुत्रवाहनत्वात् । पूर्ववत् ॥


प्रक्रिया

धातुः -


सीर + सु + इनि - अत इनिठनौ 5.2.115
सीर + इनि - सुपो धातुप्रातिपदिकयोः 2.4.71
सीर + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सीरिन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सीरिन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सीरीन् + स् - सौ च 6.4.13
सीरीन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
सीरि - नलोपः प्रातिपदिकान्तस्य 8.2.7
सीरि + आम् + इभ + सु - षष्ठी 2.2.8
सीरि + इभ - सुपो धातुप्रातिपदिकयोः 2.4.71
सीरिभ - शकन्ध्वादिषु पररूपं वक्तव्यम् (6.1.94) । वार्तिकम् ।
सीरिभ + सु + अण् - प्रज्ञादिभ्यश्च 5.4.38
सीरिभ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
सीरिभ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सीरिभ् + अ - यस्येति च 6.4.148
सैरिभ - तद्धितेष्वचामादेः 7.2.117
सैरिभ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सैरिभ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सैरिभ + रु - ससजुषो रुः 8.2.66
सैरिभ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सैरिभः - खरवसानयोर्विसर्जनीयः 8.3.15