गण्डकः

सुधाव्याख्या

गण्डेति । गच्छति । 'गम्लु गतौ' (भ्वा० प० अ०) । ञमन्ताड्डः' (उ० १.११४) । स्वार्थे कन् (५.३.७५) । यद्वा गण्डति संहतो भवति । ‘गडि वदनैकदेशे' (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । गण्डकः पुंसि खड्गे स्यात् संख्याविद्याप्रभेदयोः । अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे इति विश्वमेदिन्यौ ॥