अच्छभल्लः

सुधाव्याख्या

अच्छ आभिमुख्येन भल्लते । अच् (३.१.१३४) । - भल्लति इत्युक्तिः स्वामिमुकुटयोश्चिन्त्या ॥ संघातविगृहीतमिदं नाम । ‘अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् । आभिमुख्ये (इति मेदिनी) । (‘भल्लः स्यात् पुंसि भल्लूके शस्त्रभेदे तु न द्वयोः । भल्लाक्यां स्त्रियां भल्ली' इति मेदिनी ॥