कासरः

सुधाव्याख्या

के जले आसरति । ‘सृ गतौ' (भ्वा० आ० अ०) । अच् (३.१.१३४) । यद्वा ईषत् सरति । स्थूलकायत्वात् । 'ईषदर्थे च’ (६.३.१०५) इति कोः कादेशः ॥