गोडुम्बा

सुधाव्याख्या

गां भुवं तुम्बति । ‘तुबि अर्दने’ (भ्वा० प० से०) । मूलविभुजादिकः (वा० ३.२.५) । टाप् (४.१.४) । पृषोदरादिः (६.३.१०९) । मुकुटस्तु-गां डुम्बयति । ‘डुबि अर्दने' । अण् (३.२.१) – इत्याह । तन्न । धातुपाठेषु डुबिधातोरदर्शनात् । अणि ङीप्रसङ्गाच्च ॥


प्रक्रिया

धातुः - तुबिँ अर्दने


तुब् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुन्ब् - इदितो नुम् धातोः 7.1.58
तुंब् - नश्चापदान्तस्य झलि 8.3.24
तुम्ब् - अनुस्वारस्य ययि परसवर्णः 8.4.58
गो + अम् + तुम्ब् + क - कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (3.2.5) । वार्तिकम् ।
गो + तुम्ब् + क - सुपो धातुप्रातिपदिकयोः 2.4.71
गो + तुम्ब् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गोतुम्ब + टाप् - अजाद्यतष्टाप्‌ 4.1.4
गोतुम्ब + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
गोतुम्बा - अकः सवर्णे दीर्घः 6.1.101
गोतुम्बा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गोतुम्बा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गोतुम्बा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68