गवाक्षी

सुधाव्याख्या

गां भूमिमक्ष्णोति । ‘अक्षू व्याप्तौ' (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) । ‘गवाक्षी त्विन्द्रवारुण्यां गवाक्षो जालके कपौ' इति हैमः ॥


प्रक्रिया

धातुः - अक्षूँ व्याप्तौ


अक्ष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गो + अम् + अक्ष् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
गो + अक्ष् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
गो + अक्ष् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गो + आक्ष् + अ - अत उपधायाः 7.2.116
गव् + आक्ष - एचोऽयवायावः 6.1.78
गवाक्ष + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
गवाक्ष + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गवाक्ष् + ई - यस्येति च 6.4.148
गवाक्षी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गवाक्षी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गवाक्षी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68