इन्द्रवारुणी

सुधाव्याख्या

इन्द्रं वारयति । ‘वृञ् वरणे’‘चुरादिः । कृवृदारि-' (उ० ३.५३) इति बाहुलकाद् ण्यन्तादप्युनन् । यत्तु मुकुटः - इन्द्रवरुणौ देवते अस्याः । अण् (४.२.२४) । ‘उत्तरपदस्य च (७.३.१०) इत्युत्तरपदवृद्धिः – इत्याह । तन्न । मन्त्रहविषोरेव स्वामिनि देवतात्वव्यवहारात् । ‘उत्तरपदस्य च’ (७.३.१०) - इत्यस्याधिकारत्वेन वृद्धिविधायकत्वाभावाच्च ॥


प्रक्रिया

धातुः - वृञ् आवरणे


वृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वृ + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
वृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वार् + इ - अचो ञ्णिति 7.2.115
इन्द्र + अम् + वार् + इ + उनन् - बाहुलकात् ।
इन्द्र + वार् + इ + उनन् - सुपो धातुप्रातिपदिकयोः 2.4.71
इन्द्र + वार् + उन - णेरनिटि 6.4.51,हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
इन्द्र + वारुण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
इन्द्रवारुण + ङीप् -
इन्द्रवारुण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
इन्द्रवारुण् + ई - यस्येति च 6.4.148
इन्द्रवारुणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
इन्द्रवारुणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इन्द्रवारुणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68