अलाबूः

सुधाव्याख्या

न लम्बते । ‘लबि अवस्रंसने’ (भ्वा० आ० से०) । ‘नञि लम्बेर्नलोपश्च' (उ० १.८७) इत्यूर्णित् । ‘अलाम्बुस्तु पिण्डफला तुम्बिस्तुम्बी महाफला । तुम्बा तु वर्तुलाऽलाबूनि(र्नि)म्बचूर्णा तु लाबुका' इति वाचस्पतिः । ‘अलावूस्तुम्बकः प्रोक्तः' इति चन्द्रः ॥