इक्ष्वाकुः

सुधाव्याख्या

ईति । इक्षुमाकरोति । मितद्र्वादित्वात् (वा० ३.२.१०८) डुः । यद्वा छिक्कायां जातम् ‘इक्षु' इति शब्दमकति । ‘अक गतौ' (भ्वा० प० से०) । बाहुलकादुण् । ‘इक्ष्वाकुः कुटुतुम्ब्यां स्त्री सूर्यवंशनृपे पुमान्’ (इति मेदिनी) ॥


प्रक्रिया

धातुः - डुकृञ् करणे


कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
इक्षु + अम् + आङ् + कृ + डु - डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम् ।, उपपदमतिङ् 2.2.19
इक्षु + आङ् + कृ + डु - सुपो धातुप्रातिपदिकयोः 2.4.71
इक्षु + आ + कृ + उ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
इक्षु + आ + क् + उ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
इक्ष्वा + कु - इको यणचि 6.1.77
इक्ष्वाकु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
इक्ष्वाकु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इक्ष्वाकु + रु - ससजुषो रुः 8.2.66
इक्ष्वाकु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इक्ष्वाकुः - खरवसानयोर्विसर्जनीयः 8.3.15