विशाला

सुधाव्याख्या

विशेति । वि शलति । ‘शल चलने' (भ्वा० प० से०) । ‘ज्वलिति-' (३.१.१४०) इति णः । टाप् (४.१.४) विशति वा । अत्र वा । ‘विश प्रवेशने' (तु० प० से०) । ‘तमिविशिविडि-' (उ० १.११८) इति कालन् । ‘विशाला त्विन्द्रवारुण्यामुज्जयिन्यां तु योषिति । नृपवृक्षभिदोः पुंसि पृथुलेऽप्यभिधेयवत्’ (इति मेदिनी) ॥